श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥
लभन्ते ब्रह्मनिर्वाणं मोक्षम् ऋषयः सम्यग्दर्शिनः संन्यासिनः क्षीणकल्मषाः क्षीणपापाः निर्दोषाः छिन्नद्वैधाः छिन्नसंशयाः यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषां भूतानां हिते आनुकूल्ये रताः अहिंसका इत्यर्थः ॥ २५ ॥

यज्ञादिनित्यकर्मानुष्ठानात् पापादिलक्षणं कल्मषं क्षीयते, ततश्च श्रवणाद्यावृत्तेः सम्यग्दर्शनं जायते ततो मुक्तिरप्रयत्नेन भवति, इत्याह -

लभन्त इति ।

ज्ञानप्राप्त्युपायान्तरं दर्शयति -

छिन्नेति ।

श्रवणादिना संशयनिरसनं कार्यकरणनियमनं च, दयालुत्वेन अहिंसकत्वम् इत्येतदपि सम्यग्ज्ञानप्राप्तौ कारणमित्यर्थः । अक्षरव्यास्व्यानं स्पष्टत्वात् न व्याख्यायते ॥ २५ ॥