श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कामक्रोधवियुक्तानां यतीनां यतचेतसाम्
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥
कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानाम् अभितः उभयतः जीवतां मृतानां ब्रह्मनिर्वाणं मोक्षो वर्तते विदितात्मनां विदितः ज्ञातः आत्मा येषां ते विदितात्मानः तेषां विदितात्मनां सम्यग्दर्शिनामित्यर्थः ॥ २६ ॥

ननु - दर्शितविशेषणवतां मृतानामेव मोक्ष, नतु जीवताम् - इति चेत् ; न, इत्याह -

अभित इति ।

अस्मादादीनामपि तर्हि प्रभूतकामादिप्रभावविधुराणां किमिति मोक्षो न भवति ? इत्याशङ्क्य, सम्यग्दर्शनवैशेष्याभावात् , इत्याह -

विदितेति ।

उक्तेऽर्थे श्लोकाक्षराणामन्वयमाचष्टे -

कामक्रोधेत्यादिना

॥ २६ ॥