श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सम्यग्दर्शननिष्ठानां संन्यासिनां सद्यः मुक्तिः उक्ताकर्मयोगश्च ईश्वरार्पितसर्वभावेन ईश्वरे ब्रह्मणि आधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षाय इति भगवान् पदे पदे अब्रवीत् , वक्ष्यति अथ इदानीं ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामि इति तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म

वृत्तम् अनूद्य उत्तरश्लोकत्रयस्य तात्पर्यार्थम् आह -

सम्यग्दर्शनेति ।

ईश्वरार्पितसर्वभावेनेति । भगवति परस्मिन् ईश्वरे समर्पितः, सर्वेषां - देहेन्द्रियमनसाम् , भावः - चेष्टाविशेषः, न क्कचिदपि बहिः तेषां व्यापारः, तेन इत्यर्थः । कर्मयोगस्य तत्फलस्य च अभिधानानन्तरमिति अथशब्दार्थः ।

॥ २७ ॥