श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥
स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान्श्रोत्रादिद्वारेण अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः शब्दादयो बाह्या बहिरेव कृताः भवन्तितान् एवं बहिः कृत्वा चक्षुश्चैव अन्तरे भ्रुवोःकृत्वाइति अनुषज्यतेतथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा, यतेन्द्रियमनोबुद्धिः यतानि संयतानि इन्द्रियाणि मनः बुद्धिश्च यस्य सः यतेन्द्रियमनोबुद्धिः, मननात् मुनिः संन्यासी, मोक्षपरायणः एवं देहसंस्थानात् मोक्षपरायणः मोक्ष एव परम् अयनं परा गतिः यस्य सः अयं मोक्षपरायणो मुनिः भवेत्विगतेच्छाभयक्रोधः इच्छा भयं क्रोधश्च इच्छाभयक्रोधाः ते विगताः यस्मात् सः विगतेच्छाभयक्रोधः, यः एवं वर्तते सदा संन्यासी, मुक्त एव सः तस्य मोक्षायान्यः कर्तव्योऽस्ति ॥ २८ ॥

स्वतो बाह्यानां विषयाणां कुतो बहिष्करणम् ? इत्याशङ्क्य, आह -

श्रोत्रादीति ।

तेषां बहिष्करणं कीदृक् ? इत्याशङ्क्य, आह -

तानिति

विषयप्रावण्यं परित्यज्य, चक्षुरपि भ्रुवोर्मध्ये विक्षेपपरिहारार्थं कृत्वा, प्राणापानौ नासाभ्यन्तरचरणशीलौ समौ - न्यूनाधिकंवर्जितौ कुम्भकेन निरुद्धौ कृत्वा, करणानि सर्वाणि एवं संयम्य प्राणायामपरो भत्वा, किं कुर्यात् ? इत्यपेक्षायाम् , आह -

यतेन्द्रियेति ।

इन्द्रियादिसंयमं कृत्वा मोक्षमेव अपेक्षमाणो मननशीलः स्यात् , इत्यर्थः ।

ज्ञानातिशयनिष्ठस्य सर्वदा इच्छादिशून्यस्य सन्यासिनो मुक्तेः अनायाससिद्धत्वात् न तस्य किञ्चिदपि कर्तव्यम् अस्ति, इत्याह -

विगतेति ।

पूर्वार्धाक्षराणि व्याकरोति -

यतेत्यादिना ।

द्वितीयार्धाक्षराणि व्याचष्टे -

विगतेत्यादिना

॥ २८ ॥