श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥
भोक्तारं यज्ञतपसां यज्ञानां तपसां कर्तृरूपेण देवतारूपेण , सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तम् ईश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनिरपेक्षतया उपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्रत्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्वसंसारोपरतिम् ऋच्छति प्राप्नोति ॥ २९ ॥

प्रसिद्धं भोक्तारं व्यवच्छिनत्ति -

सर्वलोकेति ।

‘ततो ह्यस्य बन्धविपर्ययौ’ (ब्र. सू. ३-२-५) इति न्यायेन सर्वफलदातृत्वं दर्शयति -

सुहृदमिति ।

उक्तेश्वरज्ञाने फलं कथयति -

ज्ञात्वेति ।

यज्ञेषु तपस्सु च द्विधा भोक्तृत्वं व्यनक्ति -

कर्तृरूपेणेति ।

हिरण्यगर्भादिव्यवच्छेदार्थं विशिनष्टि -

महान्तमिति ।

स्वपरिकरोपकारिणं राजानं व्यावर्तयति -

प्रत्युपकारेति ।

ईश्वरस्य ताटस्थ्यं व्युदस्यति -

सर्वभूतानामिति ।

तर्हि तत्र तत्र व्यवस्थितकर्मतत्फलसंसर्गित्वं स्यात् , इत्याशङ्क्य, आह -

सर्वकर्मेति ।

न च तस्य बुद्धितद्वृत्तिसम्बन्धोऽपि वस्तुतोऽस्ति, इत्याह -

सर्वप्रत्ययेति ।

यथोक्तेश्वरपरिज्ञानफलम् आभिदधाति -

मां नारायणमिति ।

तदेवं कर्मयोगस्य अमुख्य सन्यासापेक्षया प्रशस्तत्वेऽपि ततो मुख्यसंन्यासस्य आधिक्यात् तद्वतो बुद्धिशुद्ध्यादियुक्तस्य कामक्रोधोद्भवं वेगम्  इहैव सोढुं शक्तस्य शमदमादिमतो योगाधिकृतस्य त्वम्पदार्थाभिज्ञस्य परमात्मानं प्रत्यक्त्वेन जानतो मुक्तिः इति सिद्धम् ॥ २९ ॥

इति आनन्दगिरिकृतटीकायां पञ्चमोऽध्यायः ॥ ५ ॥