श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥
एवं समाहितचित्तेन किं विज्ञेयम् इति, उच्यते —

अधिकारिणो यथोक्तस्य कर्तव्याभावे ज्ञातव्यमपि नास्ति, इत्याशङ्क्य, परिहरति -

एवमित्यादिना ।