श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दर्शनं प्रति अन्तरङ्गस्य सूत्रभूताः श्लोकाः स्पर्शान् कृत्वा बहिः’ (भ. गी. ५ । २७) इत्यादयः उपदिष्टाःतेषां वृत्तिस्थानीयः अयं षष्ठोऽध्यायः आरभ्यतेतत्र ध्यानयोगस्य बहिरङ्गं कर्म इति, यावत् ध्यानयोगारोहणसमर्थः तावत् गृहस्थेन अधिकृतेन कर्तव्यं कर्म इत्यतः तत् स्तौतिअनाश्रित इति

ध्यानयोगप्रस्तावानन्तरं तद्योग्यताहेतुकर्मणः स्तुतिं भगवान् उक्तवान् , इत्याह -

श्रीभगवानिति ।

पूर्वोत्तराध्याययोः सङ्गतिम् अभिदधानो वृत्तम् अनूद्य, अध्यायान्तरम् अवतारयति -

अतीतेति ।

सम्यग्दर्शनप्रकरणे ध्यानयोगस्य प्रसङ्गाभावं व्युदस्यति -

सम्यगिति ।

सङ्ग्रहविवरणयोः अतीतानन्तराध्याययोः युक्तं हेतुहेतुमत्त्वम् , इति भावः ।

अध्यायसम्बन्धम् अभिधाय ‘अनाश्रितः कर्मफलम् ‘ इत्यादिश्लोकद्वयस्य तात्पर्यम् आह -

तत्रेति ।

कर्मयोगस्य संन्यासहेतोः मर्यादां दर्शयितुम् , साङ्गं च योगं विचारयितुम् अध्याये प्रवृत्ते सति, इति सप्तम्यर्थः । संन्यासिना कर्तव्यं कर्म, इत्येवं प्रतिभासं व्युदस्यति -

गृहस्थेनेति ।

कर्तव्यत्वं स्तुतियोग्यत्वम् अतश्शब्दार्थः ।