श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र आश्रमिणां कश्चित् योगमारुरुक्षुः भवति, आरूढश्च कश्चित् , अन्ये आरुरुक्षवः आरूढाः ; तानपेक्ष्यआरुरुक्षोः’ ‘आरूढस्य इति विशेषणं विभागकरणं उपपद्यत एवेति चेत् , ; ‘तस्यैइति वचनात् , पुनः योगग्रहणाच्चयोगारूढस्यइति ; आसीत् पूर्वं योगमारुरुक्षुः, तस्यैव आरूढस्य शम एव कर्तव्यः कारणं योगफलं प्रति उच्यते इतिअतो यावज्जीवं कर्तव्यत्वप्राप्तिः कस्यचिदपि कर्मणःयोगविभ्रष्टवचनाच्चगृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठे अध्याये, सः योगविभ्रष्टोऽपि कर्मगतिं कर्मफलं प्राप्नोति इति तस्य नाशाशङ्का अनुपपन्ना स्यात्अवश्यं हि कृतं कर्म काम्यं नित्यं वामोक्षस्य नित्यत्वात् अनारभ्यत्वेस्वं फलं आरभत एवनित्यस्य कर्मणः वेदप्रमाणावबुद्धत्वात् फलेन भवितव्यम् इति अवोचाम, अन्यथा वेदस्य आनर्थक्यप्रसङ्गात् इति कर्मणि सति उभयविभ्रष्टवचनम् , अर्थवत् कर्मणो विभ्रंशकारणानुपपत्तेः

विशेषणविभागकरणयोः अन्यथा उपपत्तिम् आशङ्कते -

तत्रेति ।

व्यवहारभूमिः सप्तम्यर्थः । षष्ठी निर्धारणे ।

भवतु अधिकारिणां त्रैविध्यम् , तथापि प्रकृते विशेषणादौ किमायातम् ? इत्याशङ्क्य, तृतीयापेक्षया तदुपपत्तिः, इत्याह -

तानपेक्ष्येति ।

आरुरुक्षोः आरूढस्य च भेदे ‘तस्यैव ‘इति प्रकृतपरामर्शानुपपत्तिः, इति दूषयति -

न तस्येति ।

यदि अनारुरुक्षुं पुरुषम् अपेक्ष्य ‘अारुरुक्षोः’ इति विशेषणम् , तस्य च कर्म आरोहणकारणम् , अनारूढं च पुरुषम् अपेक्ष्य ‘आरूढस्य’ इति विशेषणम् , तस्य च शमः संन्यासः योगफलप्राप्तौ कारणम् , इति विशेषणविभागकरणयोः उपपत्तिः ; तदा आरुरुक्षोः आरूढस्य च भिन्नत्वात् प्रकृतपरामर्शिनः तच्छब्दस्यानुपपत्तेः न युक्तम् विशेषणाद्युपपादनम् , इत्यर्थः ।

किञ्च  योगम् आरुरुक्षोः तदारोहणे कारणं कर्म इत्युक्त्वा पुनः ‘योगारूढस्य’ इति योगशब्दप्रयोगात् यो योगं पूर्वम् आरुरुक्षुः आसीत् , तस्यैव अपेक्षितं योगम् आरूढस्य तत्फलप्राप्तौ कर्मसंन्यासः शमशब्दवाच्यो हेतुत्वेन कर्तव्य इति वचनात् आरुरुक्षोः आरूढस्य च अभिन्नत्वप्रत्यभिज्ञानात् ऩ तयोर्भिन्नत्वं शङ्कितुं शक्यम् , इत्याह -

पुनरिति ।

यत्तु   - यावज्जीवश्रुतिविरोधात् योगारोहणसीमाकरणं कर्मणोऽनुचितम् - इति, तत्राह -

अत इति ।

पूर्वोक्तरीत्या कर्मतत्त्यागयोः विभागोपपत्तौ श्रुतेः अन्यविषयत्वात् योगम् आरूढस्य मुमुक्षोः जिज्ञासमानस्य नित्यनैमित्तिककर्मस्वपि परित्यागसिद्धिः, इत्यर्थः ।

इतश्च यावज्जीवं कर्म कर्तव्यं न भवति, इत्याह -

योगेति ।

संन्यासिनो योगभ्रष्टस्य विनाशशङ्कावचनात् न यावज्जीवं कर्म कर्तव्यं प्रतिभाति, इत्यर्थः ।

ननु - योगभ्रष्टशब्देन गृहस्थस्यैव अभिधानात् तस्यैव अस्मिन्नध्याये योगविधानात् योगारोहणयोग्यत्वे सत्यपि यावज्जीवं कर्म कर्तव्यम्   - इति, नेत्याह -

गृहस्थस्येति ।

तेनापि मुमुक्षुणा कृतस्य कर्मणो मोक्षातिरिक्तफलानारम्भकत्वात् योगभ्रष्टोऽसौ छिन्नाभ्रमिव नश्यति, इति शङ्का सावकाशा, इत्याशङ्क्य, आह -

अवश्यं हीति ।

अपौरुषेयात् निर्दोषात् वेदात् फलदायिनी कर्मणः स्वाभाविकी शक्ति अवगता । ब्रह्मभावस्य च स्वतस्सिद्धत्वात् न कर्मफलत्वम् । अतो मोक्षातिरिक्तस्येव फलस्य कर्मारम्भकमिति कर्मिणि योगभ्रष्टेऽपि कर्मगतिं गच्छति इति निरवकाशा शङ्का, इत्यर्थः ।

ननु - मुमुक्षुणा काम्यप्रतिषिद्धयोः अकरणात् कृतयोश्च नित्यनैमित्तिकयोः अफलत्वात् - कथं तदीयस्य कर्मणो नियमेन फलारम्भकत्वम् ? तत्र आह -

नित्यस्य चेति ।

चकारेण नैमित्तिकं कर्म अनुकृष्यते ।

वेदप्रमणकत्वेऽपि नित्यनैमित्तिकयोः अफलत्वे दोषम् आह -

अन्यथेति ।

कर्मणोऽनुष्ठितस्य फलारम्भकत्वध्रौव्यात् गृहस्थो योगभ्रष्टोऽपि कर्मगतिं गच्छतीति न तस्य नाशाशङ्का, इति शेषः ।

इतोऽपि गृहस्थो योगभ्रष्टशब्दवाच्यो न भवति, इत्याह -

न चेति ।

ज्ञानं कर्म च इत्युभयम् , ततो भ्रष्टोऽयं नश्यति इति वचनम् , गृहस्थे कर्मिणि सति नार्थवद् भवितुम् अलम् , तस्य कर्मनिष्ठस्य कर्मणो विभ्रंशे हेत्वभावात् तत्फलस्य आवश्यकत्वात् , इत्यर्थः ।