अधिकफलहेतुत्वेऽपि मोक्षहेतुत्वम् इष्यताम् , इति शङ्कते -
मोक्षायेति ।
तदेव चोद्यं विवृणोति -
स्वकर्मणामिति ।
सहकारिसामर्थ्यात् तस्य फलान्तरं प्रति उपायत्वासिद्धिः, इति हेतुं सूचयति -
योगेति ।
ध्यानसहितस्य संन्यासस्य मोक्षौपयिकत्वे कुतो योगभ्रष्टम् अधिङ्कृत्य नाशाशङ्का, इत्याशङ्क्य, आह -
योगाच्चेति ।
सहकार्यभावे सामग्र्यभावत् फलानुपपत्तेः युक्ता नाशाशङ्का, इत्यर्थः ।
ध्यानसहितम् ईश्वरे कर्मसमर्पणं मोक्षाय, इत्यत्र प्रमाणाभावात् गृहस्थो योगभ्रष्टशब्दवाच्यो न भवति, इति दूषयति -
नेति ।
गृहस्थस्य योगभ्रष्टशब्दवाच्यत्वाभावे हेत्वन्तरम् आह -
एकाकीति ।
न खलु एतानि विशेषणानि गृहस्थसमवायीनि सम्भवन्ति । तेन तस्य ध्यानयोगविध्यभावात् न तं प्रति योगभ्रष्टशब्दवचनम् उचितम् , इत्यर्थः ।
एकाकित्ववचनं गृहस्थस्यापि ध्यानकाले स्त्रीसहायत्वाभावाभिप्रायेण भविष्यति, इत्याशङ्क्य, अग्निहोत्रादिवत् ध्यानस्य पत्नीसाधनत्वाभावात् अप्राप्तप्रतिषेधात् मैवम् इत्याह -
न चात्रेति ।
विशेषणान्तरपर्यालोचनयापि नायम् एकाकिशब्दो गृहस्थपरो भवितुम् अर्हति, इत्याह -
न चेति ।
किञ्च गृहस्थस्यैव एकाकित्वादि विवक्षित्वा ध्यानयोगविधौ तं प्रति उभयभ्रष्टप्रश्नो नोपपद्यते, इत्याह -
उभयेति ।
न हि गृहस्थं प्रति उभयस्मात् ज्ञानात् कर्मणश्च विभ्रष्टत्वम् उपेत्य प्रष्टुं युज्यते, तस्य ज्ञानाद् भ्रंशेऽपि कर्मणः तदभावात् अनुष्ठीयमानकर्मभ्रंशेऽपि प्रागनुष्ठितकर्मवशात् फलप्रतिलम्भात् । अतः यथोक्तप्रश्नालोचनया न गृहस्थं प्रति ध्यानविधानोपपत्तिः इत्यर्थः ।