श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मोक्षायै इति चेत् , स्वकर्मणां कृतानां ईश्वरे संन्यासो मोक्षायैव, फलान्तराय योगसहितः ; योगाच्च विभ्रष्टः ; इत्यतः तं प्रति नाशाशङ्का युक्तैव इति चेत् , ; एकाकी यतचित्तात्मा निराशीरपरिग्रहः’ (भ. गी. ६ । १०) ब्रह्मचारिव्रते स्थितः’ (भ. गी. ६ । १४) इति कर्मसंन्यासविधानात् अत्र ध्यानकाले स्त्रीसहायत्वाशङ्का, येन एकाकित्वं विधीयते गृहस्थस्यनिराशीरपरिग्रहःइत्यादिवचनम् अनुकूलम्उभयविभ्रष्टप्रश्नानुपपत्तेश्च

अधिकफलहेतुत्वेऽपि मोक्षहेतुत्वम् इष्यताम् , इति शङ्कते -

मोक्षायेति ।

तदेव चोद्यं विवृणोति -

स्वकर्मणामिति ।

सहकारिसामर्थ्यात् तस्य फलान्तरं प्रति उपायत्वासिद्धिः, इति हेतुं सूचयति -

योगेति ।

ध्यानसहितस्य संन्यासस्य मोक्षौपयिकत्वे कुतो योगभ्रष्टम् अधिङ्कृत्य नाशाशङ्का, इत्याशङ्क्य, आह -

योगाच्चेति ।

सहकार्यभावे सामग्र्यभावत् फलानुपपत्तेः युक्ता नाशाशङ्का, इत्यर्थः ।

ध्यानसहितम् ईश्वरे कर्मसमर्पणं मोक्षाय, इत्यत्र प्रमाणाभावात् गृहस्थो योगभ्रष्टशब्दवाच्यो न भवति, इति दूषयति -

नेति ।

गृहस्थस्य योगभ्रष्टशब्दवाच्यत्वाभावे हेत्वन्तरम् आह -

एकाकीति ।

न खलु एतानि विशेषणानि गृहस्थसमवायीनि सम्भवन्ति । तेन तस्य ध्यानयोगविध्यभावात् न तं प्रति योगभ्रष्टशब्दवचनम् उचितम् , इत्यर्थः ।

एकाकित्ववचनं गृहस्थस्यापि ध्यानकाले स्त्रीसहायत्वाभावाभिप्रायेण भविष्यति, इत्याशङ्क्य, अग्निहोत्रादिवत् ध्यानस्य पत्नीसाधनत्वाभावात् अप्राप्तप्रतिषेधात् मैवम् इत्याह -

न चात्रेति ।

विशेषणान्तरपर्यालोचनयापि नायम् एकाकिशब्दो गृहस्थपरो भवितुम् अर्हति, इत्याह -

न चेति ।

किञ्च गृहस्थस्यैव एकाकित्वादि विवक्षित्वा ध्यानयोगविधौ तं प्रति उभयभ्रष्टप्रश्नो नोपपद्यते, इत्याह -

उभयेति ।

न हि गृहस्थं प्रति उभयस्मात् ज्ञानात् कर्मणश्च विभ्रष्टत्वम् उपेत्य प्रष्टुं युज्यते, तस्य ज्ञानाद् भ्रंशेऽपि कर्मणः तदभावात् अनुष्ठीयमानकर्मभ्रंशेऽपि प्रागनुष्ठितकर्मवशात् फलप्रतिलम्भात् । अतः यथोक्तप्रश्नालोचनया न गृहस्थं प्रति ध्यानविधानोपपत्तिः इत्यर्थः ।