श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं उक्तम् , प्रतिषिद्धं निरग्नेः अक्रियस्य संन्यासित्वं योगित्वं चेति चेत् , ; ध्यानयोगं प्रति बहिरङ्गस्य यतः कर्मणः फलाकाङ्क्षासंन्यासस्तुतिपरत्वात् केवलं निरग्निः अक्रियः एव संन्यासी योगी किं तर्हि ? कर्म्यपि, कर्मफलासङ्गं संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्ध्यर्थम् , ‘ संन्यासी योगी भवतिइति स्तूयते एकेन वाक्येन कर्मफलासङ्गसंन्यासस्तुतिः चतुर्थाश्रमप्रतिषेधश्च उपपद्यते प्रसिद्धं निरग्नेः अक्रियस्य परमार्थसंन्यासिनः श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगित्वं प्रतिषेधति भगवान्स्ववचनविरोधाच्चसर्वकर्माणि मनसा संन्सस्य . . . नैव कुर्वन्न कारयन् आस्ते’ (भ. गी. ५ । १३) मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः’ (भ. गी. २ । ७१) सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) इति तत्र तत्र भगवता स्ववचनानि दर्शितानि ; तैः विरुध्येत चतुर्थाश्रमप्रतिषेधःतस्मात् मुनेः योगम् आरुरुक्षोः प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपेक्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण प्रतिपद्यते इति संन्यासी योगी इति स्तूयते

ननु - भगवता संन्यासस्य प्रतिषिद्धत्वात् गृहस्थस्यैव योगविधानात् तस्यैव योगभ्रष्टशब्दवाच्यत्वम् , इति शङ्कते -

अनाश्रित इत्यनेनेति ।

भगवद्वाक्यं न प्रतिषेधपरम् ,  इति परिहरति -

न ध्यानेति ।

स्तुतिपरत्वमेव स्फोरयति -

न केवलमिति ।

सत्त्वशुद्ध्यर्थम् अनुतिष्ठन् , इति सम्बन्धः ।

वाक्यस्य उभयपरत्वम् आशङ्क्य वाक्यभेदप्रसङ्गात् मैवमित्याह -

न चेति ।

इतोऽपि भगवतः संन्यासाश्रमप्रतिषेधोऽभिप्रेतो न भवति, इत्याह -

न च प्रसिद्धमिति ।

तस्य प्रसिद्धं संन्यासित्वं योगित्वं च, इति सम्बन्धः ।

प्रसिद्धत्वमेव व्याकरोति -

श्रुतीति ।

इतोऽपि संन्यासाश्रमं भगवान् न प्रतिषेधति, इत्याह -

स्ववचनेति ।

विरोधमेव साधयति -

सर्वकर्माणीत्यादिना ।

‘अनाश्रितः’ (भ. गी. ६-१) इत्यादिवाक्यस्य यथाश्रुतार्थत्वानुपपत्तेः स्तुतिपरत्वम् उपपादितम् उपसंहरति -

तस्मादिति ।

कर्मफलसंन्यासित्वम् , अत्र मुनिशब्दार्थः ।