श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव
ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥
यं सर्वकर्मतत्फलपरित्यागलक्षणं परमार्थसंन्यासं संन्यासम् इति प्राहुः श्रुतिस्मृतिविदः, योगं कर्मानुष्ठानलक्षणं तं परमार्थसंन्यासं विद्धि जानीहि हे पाण्डवकर्मयोगस्य प्रवृत्तिलक्षणस्य तद्विपरीतेन निवृत्तिलक्षणेन परमार्थसंन्यासेन कीदृशं सामान्यमङ्गीकृत्य तद्भाव उच्यते इत्यपेक्षायाम् इदमुच्यतेअस्ति हि परमार्थसंन्यासेन सादृश्यं कर्तृद्वारकं कर्मयोगस्ययो हि परमार्थसंन्यासी त्यक्तसर्वकर्मसाधनतया सर्वकर्मतत्फलविषयं सङ्कल्पं प्रवृत्तिहेतुकामकारणं संन्यस्यतिअयमपि कर्मयोगी कर्म कुर्वाण एव फलविषयं सङ्कल्पं संन्यस्यति इत्येतमर्थं दर्शयिष्यन् आह हि यस्मात् असंन्यस्तसङ्कल्पः असंन्यस्तः अपरित्यक्तः फलविषयः सङ्कल्पः अभिसन्धिः येन सः असंन्यस्तसङ्कल्पः कश्चन कश्चिदपि कर्मी योगी समाधानवान् भवति सम्भवतीत्यर्थः, फलसङ्कल्पस्य चित्तविक्षेपहेतुत्वात्तस्मात् यः कश्चन कर्मी संन्यस्तफलसङ्कल्पो भवेत् योगी समाधानवान् अविक्षिप्तचित्तो भवेत् , चित्तविक्षेपहेतोः फलसङ्कल्पस्य संन्यस्तत्वादित्यभिप्रायः ॥ २ ॥

यदुक्तं - संन्यासित्वं योगित्वं च गृहस्थस्य गौणम् - इति, तद् उत्तरार्धयोजनया प्रकटयितुम् उत्तरार्धम् उत्थापयति -

कर्मयोगस्येति ।

कर्मयोगस्य परमार्थसंन्यासेन कर्तृद्वारकं साम्यम् उक्तं व्यक्तीकरोति -

योहीति ।

त्यक्तानि सर्वाणि कर्माणि साधनानि च येन, स तथोक्तः, तस्य भावः तत्ता, तया । सर्वकर्मविषयं तत्फलविषयं च सङ्कल्पं त्यजति, इत्यर्थः ।

सङ्कल्पत्यागे तत्कार्यकामत्यागः, तत्त्यागे तज्जन्यप्रवृत्तित्यागश्च सिद्ध्यति, इति अभिसन्धाय विशिनष्टि -

प्रवृत्तीति ।

कर्मिण्यपि यथोक्तसङ्कल्पसंन्यासित्वम् अस्ति, इत्याह -

अयमपीति ।

तदपरित्यागे व्याकुलचेतस्तया कर्मानुष्ठानस्यैव दुश्शकत्वात् , इत्यर्थः ।

उक्तमेव साम्यं व्यक्तीकुर्वन् व्यतिरेकं दर्शयति -

इत्येतमिति ।

फलसङ्कल्पापरित्यागे किमिति समाधानवत्ताभावः ? तत्र आह -

फलेति ।

व्यतिरेकमुखेन उक्तम् अर्थम् , अन्वयमुखेन उपसंहरति -

तस्मादिति ।

हिशब्दार्थस्य ‘यस्मात् ‘ इत्युक्तस्य ‘तस्मात् ‘ इत्यनेन सम्बन्धः ।

कर्मिणं प्रति यथोक्तविधौ हेतुहेतुमद्भावम् अभिप्रेत्य, द्वितीयविधौ हेतुमाह -

चित्तविक्षेपेति ।

॥ २ ॥