यदुक्तं - संन्यासित्वं योगित्वं च गृहस्थस्य गौणम् - इति, तद् उत्तरार्धयोजनया प्रकटयितुम् उत्तरार्धम् उत्थापयति -
कर्मयोगस्येति ।
कर्मयोगस्य परमार्थसंन्यासेन कर्तृद्वारकं साम्यम् उक्तं व्यक्तीकरोति -
योहीति ।
त्यक्तानि सर्वाणि कर्माणि साधनानि च येन, स तथोक्तः, तस्य भावः तत्ता, तया । सर्वकर्मविषयं तत्फलविषयं च सङ्कल्पं त्यजति, इत्यर्थः ।
सङ्कल्पत्यागे तत्कार्यकामत्यागः, तत्त्यागे तज्जन्यप्रवृत्तित्यागश्च सिद्ध्यति, इति अभिसन्धाय विशिनष्टि -
प्रवृत्तीति ।
कर्मिण्यपि यथोक्तसङ्कल्पसंन्यासित्वम् अस्ति, इत्याह -
अयमपीति ।
तदपरित्यागे व्याकुलचेतस्तया कर्मानुष्ठानस्यैव दुश्शकत्वात् , इत्यर्थः ।
उक्तमेव साम्यं व्यक्तीकुर्वन् व्यतिरेकं दर्शयति -
इत्येतमिति ।
फलसङ्कल्पापरित्यागे किमिति समाधानवत्ताभावः ? तत्र आह -
फलेति ।
व्यतिरेकमुखेन उक्तम् अर्थम् , अन्वयमुखेन उपसंहरति -
तस्मादिति ।
हिशब्दार्थस्य ‘यस्मात् ‘ इत्युक्तस्य ‘तस्मात् ‘ इत्यनेन सम्बन्धः ।
कर्मिणं प्रति यथोक्तविधौ हेतुहेतुमद्भावम् अभिप्रेत्य, द्वितीयविधौ हेतुमाह -
चित्तविक्षेपेति ।
॥ २ ॥