श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ननु निरग्नेः अक्रियस्यैव श्रुतिस्मृतियोगशास्त्रेषु संन्यासित्वं योगित्वं प्रसिद्धम्कथम् इह साग्नेः सक्रियस्य संन्यासित्वं योगित्वं अप्रसिद्धमुच्यते इतिनैष दोषः, कयाचित् गुणवृत्त्या उभयस्य सम्पिपादयिषितत्वात्तत् कथम् ? कर्मफलसङ्कल्पसंन्यासात् संन्यासित्वम् , योगाङ्गत्वेन कर्मानुष्ठानात् कर्मफलसङ्कल्पस्य चित्तविक्षेपहेतोः परित्यागात् योगित्वं इति गौणमुभयम् ; पुनः मुख्यं संन्यासित्वं योगित्वं अभिप्रेतमित्येतमर्थं दर्शयितुमाह

उत्तरश्लोकस्य तात्पर्यं दर्शयितुं व्यावर्त्यम् आशङ्कां दर्शयति -

ननु चेति ।

प्रसिद्धिमपरित्यज्य अप्रसिद्धिः उपदीयमाना प्रसिद्धिविरुद्धा, इति चोद्यं दूषयति -

नैष दोष इति ।

उभयस्य - साग्नौ सक्रिये च संन्यासित्वस्य योगित्वस्य च, इत्यर्थः ।

गुणवृत्त्या उभयसम्पादनं प्रश्नपूर्वकं प्रकटयति -

तत् कथं इत्यादिना ।

सम्भवति मुख्ये संन्यासित्वादौ किमिति गौणम् उभयम् अभीष्टम् ? इत्याशङ्य, मुख्यस्य कर्मिणि असम्भवात् गौणमेव स्तुतिसिद्ध्यर्थं तत् इष्टम् , इत्यभिप्रेत्य, आह -

न पुनरिति ।

चित्तव्याकुलत्वहेतुकामनात्यागात् चित्तसमाधानसिद्धेः योगित्वं कर्मिणोऽपि युक्तम् , संन्यासित्वं तु तस्य विरुद्धम् , इति शङ्कमानं प्रति उक्ते अर्थे श्लोकम् अवतारयति -

इत्येतमिति ।

परमार्थसंन्यासं प्राहुः, इति सम्बन्धः । इति इत्थं संन्यासस्य प्रारमाणिकाभ्युपगतत्वादिति, इतिशब्दो योज्यः । योगं फलतृष्णां परित्यज्य समाहितचेतस्तया, इति शेषः