भाविन्या वृत्त्या मुनेर्योगम् आरोढुम् इच्छोः इष्यमाणस्य योगारोहणस्य कर्महेतुश्चेद् अपेक्षितम् योगम् आरूढस्यपि तत्फलप्राप्तौ तदेव कारणं भविष्यति तस्य कारणत्वे क्लृप्तशक्तित्वात् , इत्याशङ्क्य, आह -
योगारूढस्येति ।
अनारूढस्य इत्येतस्यैव अर्थम् स्फुटयति -
ध्यानेति ।
मुनित्वं कर्मफलसंन्यासिनि औपचारिकम् , इत्याह -
कर्मफलेति ।
साधनं चित्तशुद्धिद्वारा ध्यानयोगप्राप्तीच्छायाम् , इति शेषः । ‘तस्य’ इति प्रकृतस्य कर्मिणो ग्रहणम् ।
एवकारो भिन्नक्रमः शमशब्देन सम्बध्यते । कस्य अन्ययोगव्यवच्छेदेन शमो हेतुः ? इति, तत्र आह -
योगारूढत्वस्येति ।
सर्वव्यापारोपरमरूपोपशमस्य योगारूढत्वे कारणत्वं विवृणोति -
यावद्यावदिति ।
सर्वकर्मनिवृत्तौ आयासाभावात् वशीकृतस्य इन्द्रियग्रामस्य चित्तसमाधाने योगारूढत्वं सिध्यति, इत्यर्थः ।
सर्वकर्मोपरमस्य पुरुषार्थसाधनत्वे पौराणिकीं सम्मतिम् आह -
तथा चेति ।
एकता सर्वेषु भूतेषु वस्तुनो द्वैताभावोपलक्षितत्वम् , इति प्रतिपत्तिः । समता - तेष्वेव औपाधिकविशेषेऽपि स्वतो निर्विशेषत्वधीः । सत्यता - तेषामेव हितवचनम् । शीलम् - स्वभावसम्पत्तिः । स्थितिः - स्थैर्यम् । दण्डनिधानम् - अहिंसनम् । आर्जवम् - अवक्रत्वम् । क्रियाभ्यः सर्वाभ्यः सकाशात् उपरतिश्च इति, एतदुक्तं सर्वं यथा - यादृशम् , एतादृशं नान्यद् ब्राह्मणस्य वित्तम् - पुमर्थसाधनम् , अस्ति । तस्मात् एतदेव अस्य निरतिशयं पुरुषार्थसाधनम् , इत्यर्थः ॥ ३ ॥