श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥
आरुरुक्षोः आरोढुमिच्छतः, अनारूढस्य, ध्यानयोगे अवस्थातुमशक्तस्यैवेत्यर्थःकस्य तस्य आरुरुक्षोः ? मुनेः, कर्मफलसंन्यासिन इत्यर्थःकिमारुरुक्षोः ? योगम्कर्म कारणं साधनम् उच्यतेयोगारूढस्य पुनः तस्यैव शमः उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्यर्थःयावद्यावत् कर्मभ्यः उपरमते, तावत्तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयतेतथा सति झटिति योगारूढो भवतितथा चोक्तं व्यासेननैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः’ (मो. ध. १७५ । ३७) इति ॥ ३ ॥

भाविन्या वृत्त्या मुनेर्योगम् आरोढुम् इच्छोः इष्यमाणस्य योगारोहणस्य कर्महेतुश्चेद् अपेक्षितम् योगम् आरूढस्यपि तत्फलप्राप्तौ तदेव कारणं भविष्यति तस्य कारणत्वे क्लृप्तशक्तित्वात् , इत्याशङ्क्य, आह -

योगारूढस्येति ।

अनारूढस्य इत्येतस्यैव अर्थम् स्फुटयति -

ध्यानेति ।

मुनित्वं कर्मफलसंन्यासिनि औपचारिकम् , इत्याह -

कर्मफलेति ।

साधनं चित्तशुद्धिद्वारा ध्यानयोगप्राप्तीच्छायाम् , इति शेषः । ‘तस्य’ इति प्रकृतस्य कर्मिणो ग्रहणम् ।

एवकारो भिन्नक्रमः शमशब्देन सम्बध्यते । कस्य अन्ययोगव्यवच्छेदेन शमो हेतुः ? इति, तत्र आह -

योगारूढत्वस्येति ।

सर्वव्यापारोपरमरूपोपशमस्य योगारूढत्वे कारणत्वं विवृणोति -

यावद्यावदिति ।

सर्वकर्मनिवृत्तौ आयासाभावात् वशीकृतस्य इन्द्रियग्रामस्य चित्तसमाधाने योगारूढत्वं सिध्यति, इत्यर्थः ।

सर्वकर्मोपरमस्य पुरुषार्थसाधनत्वे पौराणिकीं सम्मतिम् आह -

तथा चेति ।

एकता सर्वेषु  भूतेषु वस्तुनो द्वैताभावोपलक्षितत्वम् ,  इति प्रतिपत्तिः । समता - तेष्वेव औपाधिकविशेषेऽपि स्वतो निर्विशेषत्वधीः । सत्यता - तेषामेव हितवचनम् । शीलम् - स्वभावसम्पत्तिः । स्थितिः - स्थैर्यम् । दण्डनिधानम् - अहिंसनम् । आर्जवम् - अवक्रत्वम् । क्रियाभ्यः सर्वाभ्यः सकाशात् उपरतिश्च इति, एतदुक्तं सर्वं यथा - यादृशम् , एतादृशं नान्यद् ब्राह्मणस्य वित्तम् - पुमर्थसाधनम् , अस्ति । तस्मात् एतदेव अस्य निरतिशयं पुरुषार्थसाधनम् , इत्यर्थः ॥ ३ ॥