श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससामान्यमपेक्ष्ययं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डवइति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वम् उक्तम्ध्यानयोगस्य फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन स्तुत्वा अधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति

पूर्वश्लोके पूर्वोत्तरार्धाभ्याम् उक्तम् अनुवदति -

एवमिति

परमार्थसंन्यासस्य कर्मयोगान्तर्भावे कर्मयोगस्यैव सदा कर्तव्यत्वम् आपद्येत, तेन इतरस्यापि कृतत्वसिद्धेः, इत्याशङ्क्य, उक्तानुवादपूर्वकम् उत्तरश्लोकतात्पर्यम् आह -

ध्यानयोगस्येति ।