श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा हि नेन्द्रियार्थेषु कर्मस्वनुषज्जते
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥
यदा समाधीयमानचित्तो योगी हि इन्द्रियार्थेषु इन्द्रियाणामर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु नित्यनैमित्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्ध्या अनुषज्जते अनुषङ्गं कर्तव्यताबुद्धिं करोतीत्यर्थःसर्वसङ्कल्पसंन्यासी सर्वान् सङ्कल्पान् इहामुत्रार्थकामहेतून् संन्यसितुं शीलम् अस्य इति सर्वसङ्कल्पसंन्यासी, योगारूढः प्राप्तयोग इत्येतत् , तदा तस्मिन् काले उच्यते । ‘सर्वसङ्कल्पसंन्यासीइति वचनात् सर्वांश्च कामान् सर्वाणि कर्माणि संन्यस्येदित्यर्थःसङ्कल्पमूला हि सर्वे कामाःसङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । ’ (मनु. २ । ३) काम जानामि ते मूलं सङ्कल्पात्किल जायसे त्वां सङ्कल्पयिष्यामि तेन मे भविष्यसि’ (मो. ध. १७७ । २५) इत्यादिस्मृतेःसर्वकामपरित्यागे सर्वकर्मसंन्यासः सिद्धो भवति, यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते’ (बृ. उ. ४ । ४ । ५) इत्यादिश्रुतिभ्यः ; यद्यद्धि कुरुते जन्तुः तत्तत् कामस्य चेष्टितम्’ (मनु. २ । ४) इत्यादिस्मृतिभ्यश्च ; न्यायाच्च हि सर्वसङ्कल्पसंन्यासे कश्चित् स्पन्दितुमपि शक्तःतस्मात्सर्वसङ्कल्पसंन्यासीइति वचनात् सर्वान् कामान् सर्वाणि कर्माणि त्याजयति भगवान् ॥ ४ ॥

सर्वेषाम् अपि सङ्कल्पानां योगारोहणप्रतिबन्धकत्वम् अभिप्रेत्य सर्वसङ्कल्पसंन्यासी इत्यत्र विवक्षितम् अर्थम् आह -

सर्वानिति ।

सर्वसङ्कल्पसन्यासेऽपि सर्वेषां कामानां कर्मणां च प्रतिबन्धकत्वसम्भवे कुतो योगप्राप्तिः ? इत्याशङ्क्य, आह -

सर्वेति ।

सर्वसङ्कल्पपरित्यगे यथोक्तविध्यनुष्ठानम् , अयत्नसिद्धम् इति मन्वानः सन् आह -

सङ्कल्पेति ।

मूलोन्मूलने च तत्कार्यनिवृत्तिः अयत्नसुलभा, इति भावः ।

तत्र प्रमाणम् आह -

सङ्कल्पमूल इति ।

तत्र अन्वयव्यतिरेकौ अभिप्रेत्य उक्तम् उपपादयति -

कामेति ।

सर्वसङ्कल्पाभावे कामाभाववत् कर्माभावस्य सिद्धत्वेऽपि कर्मणां कामकार्यत्वात् तन्निवृत्तिप्रयुक्तामपि निवृत्तिम् उपन्यस्यति -

सर्वकामेति ।

यदुक्तं कर्मणां कामकार्यत्वम् , तत्र श्रृतिस्मृती प्रभाणयति -

स यथेति ।

स पुरुषः स्वरूपम् अजानन् यत्फलकामो भवति, तत्साधनम् अनुष्ठेयतया बुद्धो धारयति, इति तत्क्रतुकर्भवति । यच्च अनुष्ठेयतया गृह्णाति, तदेव कर्म बहिरपि करोति, इति कामाधीनं कर्म उक्तम् , इति श्रुत्यर्थः । कामजन्यं कर्म, इति अन्वयव्यतिरेकसिद्धम् , इति द्योतयितुं स्मृतौ ‘हि’ शब्दः ।

न्यायमेव दर्शयति -

नहि सर्वसङ्कल्पेति ।

स्वापादौ अदर्शनात् , इत्यर्थः । नित्यनैमित्तिककर्मानुष्ठानं दुरनिरस्तम् , इति वक्तुम्  ‘अपि’ शब्दः ।

श्रुतिस्मृतिन्यायसिद्धम् अर्थम् उपसंहरति -

तस्मादिति

॥ ४ ॥