श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा हि नेन्द्रियार्थेषु कर्मस्वनुषज्जते
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥
अथेदानीं कदा योगारूढो भवति इत्युच्यते —

योगप्राप्तौ कारणकथनानन्तरं तत्प्राप्तिकालं दर्शयितुं श्लोकान्तरम् अवतारयति -

अथेति ।

समाधानावस्था ‘यदा’ इत्युच्यते । अत एवोक्तं समाधीयमानचित्तो योगी, इति । शब्दादिषु कर्मसु च अनुषङ्गस्य योगारोहणप्रतिबन्धकत्वात् तदभावस्य तदुपायत्वं प्रसिद्धम् , इति द्योतयितुं ‘हि’ इत्युक्तम् ।