तत्र हेतुम् आह -
आत्मैव हीति ।
उद्धरणापेक्षाम् आत्मनः सूचयति -
संसारेति ।
संसारात् ऊर्ध्वं हरण कीदृक् ? इत्याशङ्क्य, आह -
योगारूढतामिति ।
योगप्राप्तौ अनास्था तु न कर्तव्या, इत्याह -
नात्मानमिति ।
योगप्राप्त्युपायश्चेत् नानुष्ठीयते, तदा योगाभावे सम्सारपरिहारासम्भवात् आत्मा अधो नीतः स्यात् , इत्यर्थः ।
ननु - आत्मानं सम्सारे निमग्नं तदीयो बन्धुः तस्मात् उद्धरिष्यति ; नेत्याह -
आत्मैव हीति ।
कुतोऽवधारणम् अन्यस्यापि प्रसिद्धस्य बन्धोः सम्भवात् , तत्र आह -
न हीति ।
अन्यो बन्धुः सन् अपि सम्सारमुक्तये न भवति, इत्येतत् उपपादयति -
बन्धुरपीति ।
‘स्नेहादि’ इति आदिशब्दात् तदनुगुणप्रवृत्तिविषयत्वं गृह्यते ।
आत्मातिरिक्तिस्यापि शत्रोः अपकारिणः सुप्रसिद्धत्वात् अवधारणम् अनुचितम् , इत्याशङ्क्य, आह -
योऽन्य इति
॥ ५ ॥