श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥
उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः उत् ऊर्ध्वं हरेत् उद्धरेत् , योगारूढतामापादयेदित्यर्थः आत्मानम् अवसादयेत् अधः नयेत् , अधः गमयेत्आत्मैव हि यस्मात् आत्मनः बन्धुः हि अन्यः कश्चित् बन्धुः, यः संसारमुक्तये भवतिबन्धुरपि तावत् मोक्षं प्रति प्रतिकूल एव, स्नेहादिबन्धनायतनत्वात्तस्मात् युक्तमवधारणम्आत्मैव ह्यात्मनो बन्धुःइतिआत्मैव रिपुः शत्रुःयः अन्यः अपकारी बाह्यः शत्रुः सोऽपि आत्मप्रयुक्त एवेति युक्तमेव अवधारणम्आत्मैव रिपुरात्मनःइति ॥ ५ ॥

तत्र हेतुम् आह -

आत्मैव हीति ।

उद्धरणापेक्षाम् आत्मनः सूचयति -

संसारेति ।

संसारात् ऊर्ध्वं हरण कीदृक् ? इत्याशङ्क्य, आह -

योगारूढतामिति ।

योगप्राप्तौ अनास्था तु न कर्तव्या, इत्याह -

नात्मानमिति ।

योगप्राप्त्युपायश्चेत् नानुष्ठीयते, तदा योगाभावे सम्सारपरिहारासम्भवात् आत्मा अधो नीतः स्यात्  , इत्यर्थः ।

ननु - आत्मानं सम्सारे निमग्नं तदीयो बन्धुः तस्मात् उद्धरिष्यति ; नेत्याह -

आत्मैव हीति ।

कुतोऽवधारणम् अन्यस्यापि प्रसिद्धस्य बन्धोः सम्भवात् , तत्र आह -

न हीति ।

अन्यो बन्धुः सन् अपि सम्सारमुक्तये न भवति, इत्येतत् उपपादयति -

बन्धुरपीति ।

‘स्नेहादि’ इति आदिशब्दात् तदनुगुणप्रवृत्तिविषयत्वं गृह्यते ।

आत्मातिरिक्तिस्यापि शत्रोः अपकारिणः सुप्रसिद्धत्वात् अवधारणम् अनुचितम् , इत्याशङ्क्य, आह -

योऽन्य इति

॥ ५ ॥