श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा एवं योगारूढः, तदा तेन आत्मा उद्धृतो भवति संसारादनर्थजातात्अतः

योगारूढस्य किं स्यात् ? इत्याशङ्क्य, आह -

यदैवमिति ।

योगारोहस्य दृष्टादृष्ठोपायैः अवश्यकर्तव्यतायै मुक्तिहेतुत्वम् , तद्विपर्ययस्य अधःपतनहेतुत्वं च, दर्शयति -

अत इति ।