श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥
बन्धुः आत्मा आत्मनः तस्य, तस्य आत्मनः आत्मा बन्धुः येन आत्मना आत्मैव जितः, आत्मा कार्यकरणसङ्घातो येन वशीकृतः, जितेन्द्रिय इत्यर्थःअनात्मनस्तु अजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेत आत्मैव शत्रुवत् , यथा अनात्मा शत्रुः आत्मनः अपकारी, तथा आत्मा आत्मन अपकारे वर्तेत इत्यर्थः ॥ ६ ॥

एकस्यैव आत्मनो मिथो विरुद्धं बन्धुत्वं रिपुत्वं च लक्षणभेदम् अन्तरेण अयुक्तम् , इति चोदिते, वशीकृत सङ्घातस्य आत्मानं प्रति बन्धुत्वम् , इतरस्य शत्रत्वम् , अविरोधं दर्शयति -

बन्धुरित्यादिना ।

वशीकृतसङ्घातस्य विक्षेपाभावात् आत्मनि समाधानसम्भवात् , उपपन्नम्  आत्मानं प्रति बन्धुत्वम् , इति साधयति -

तस्येति ।

अवशीकृतसङ्घातस्य पुनर्विक्षेपोपपत्तेः आत्मनि समाधानायोगात् आत्मानं प्रति शत्रुभावे प्रसिद्धशत्रुवत् आत्मैव शत्रुत्वेन वर्तेत, इति उत्तरार्धं व्याकरोति -

अनात्मन इति ।

दृष्टान्तं व्याचष्टे -

यथेति ।

उक्तदृष्टान्तवशात् अवशोकृतसङ्घातः स्वस्य हितानाचरणात् आत्मानं प्रति शत्रुरेव, इति दार्ष्टान्तिकम् आह -

तथेति

॥ ६ ॥