श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥
आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तम् । तत्र किंलक्षण आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मा आत्मनो रिपुः इत्युच्यते —

उक्तम् अनूद्य प्रश्नपूर्वकं श्लोकान्तरम् अवतारयति -

आत्मैव इत्यादिना ।