श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
जितात्मनः प्रशान्तस्य परमात्मा समाहितः
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥
जितात्मनः कार्यकरणसङ्घात आत्मा जितो येन सः जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तःकरणस्य सतः संन्यासिनः परमात्मा समाहितः साक्षादात्मभावेन वर्तते इत्यर्थःकिञ्च शीतोष्णसुखदुःखेषु तथा माने अपमाने मानापमानयोः पूजापरिभवयोः समः स्यात् ॥ ७ ॥

कथं संयतकार्यकरणस्य बन्धुरात्मा ? इति, तत्र आह -

जितात्मन इति ।

जितकार्यकरणसङ्घातस्य प्रकर्षेण उपरतबाह्याभ्यन्तरकरणस्य परमात्मा विक्षेपेण पुनः पुनः अनभिभूयमानो निरन्तरं चित्ते प्रथते, इत्यर्थः ।

जितात्मानं संन्यस्तसमस्तकर्माणम् अधिकारिणं प्रदर्श्य, योगाङ्गानि दर्शयति -

शीतेति ।

समः स्यात् , इति अध्याहारः ।

पूर्वार्धं व्याचष्टे -

जितेत्यादिना ।

न केवलं तस्य परमात्मा साक्षात् आत्मभावेन वर्तते, किन्तु शीतोष्णादिभिरपि नासौ चाल्यते तत्वज्ञानात् , इति उत्तरार्धं विभजते -

किञ्चेति ।

तेषु, समः स्यात् इति सम्बन्धः

॥ ७ ॥