ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८ ॥
ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानम् , विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणम् , ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः सञ्जातालंप्रत्ययः आत्मा अन्तःकरणं यस्य सः ज्ञानविज्ञानतृप्तात्मा, कूटस्थः अप्रकम्प्यः, भवति इत्यर्थः ; विजितेन्द्रियश्च । य ईदृशः, युक्तः समाहितः इति स उच्यते कथ्यते । स योगी समलोष्टाश्मकाञ्चनः लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः ॥ ८ ॥