श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८ ॥
ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानम् , विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणम् , ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः सञ्जातालंप्रत्ययः आत्मा अन्तःकरणं यस्य सः ज्ञानविज्ञानतृप्तात्मा, कूटस्थः अप्रकम्प्यः, भवति इत्यर्थः ; विजितेन्द्रियश्च ईदृशः, युक्तः समाहितः इति उच्यते कथ्यते योगी समलोष्टाश्मकाञ्चनः लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः ॥ ८ ॥

चित्तसमाधानमेव विशिष्टफलं चेत् इष्टम् , तर्हि कथम्भूतः समाहितो व्यवह्रियते, तत्र आह -

ज्ञानेति ।

परोक्षापरोक्षाभ्यां ज्ञानविज्ञानाभ्यां सञ्जातः अलंप्रत्ययः यस्य अन्तःकरणे, सोऽक्रियो हर्षविषादकामक्रोधादिरहितो योगी, युक्तः, समाहित इति व्यवहारभागी भवति, इति पदत्रयव्याख्यानेन दर्शयति -

ज्ञानमित्यादिना ।

स च योगी परमहंसपरिव्राजकः सर्वत्र उपेक्षाबुद्धिः अनतिशयवैराग्यभागी, इति कथयति -

स योगीति

॥ ८ ॥