श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
साधुष्वपि पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥
सुहृत्इत्यादिश्लोकार्धम् एकं पदम्सुहृत् इति प्रत्युपकारमनपेक्ष्य उपकर्ता, मित्रं स्नेहवान् , अरिः शत्रुः, उदासीनः कस्यचित् पक्षं भजते, मध्यस्थः यो विरुद्धयोः उभयोः हितैषी, द्वेष्यः आत्मनः अप्रियः, बन्धुः सम्बन्धी इत्येतेषु साधुषु शास्त्रानुवर्तिषु अपि पापेषु प्रतिषिद्धकारिषु सर्वेषु एतेषु समबुद्धिःकः किङ्कर्माइत्यव्यापृतबुद्धिरित्यर्थःविशिष्यते, ‘विमुच्यतेइति वा पाठान्तरम्योगारूढानां सर्वेषाम् अयम् उत्तम इत्यर्थः ॥ ९ ॥

पदच्छेदः पदार्थोक्तिः इति व्याख्यानाङ्गं सम्पादयति -

सुहृदितीति ।

अरिर्नाम परोक्षम् अपकारकः, प्रत्यक्षम्  अप्रियो द्वेष्यः, इति विभागः । समबुद्धिः इति व्याचष्टे -

कः किमिति ।

प्रथमो हि प्रश्नो जातिगोत्रादिविषयः, द्वितीयो व्यापारविषयः । उक्तप्रकारेण अव्यापृतबुद्धित्वे सर्वोत्कर्षो वा सर्वपापविमोक्षो वा सिध्यति, इत्याह -

विशिष्यत इति ।

पाठद्वयेऽपि सिद्धम् अर्थं सङ्गृह्य कथयति -

योगारूढानामिति

॥ ९ ॥