श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
योगी युञ्जीत सततमात्मानं रहसि स्थितः
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥
योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदा आत्मानम् अन्तःकरणं रहसि एकान्ते गिरिगुहादौ स्थितः सन् एकाकी असहायः । ‘रहसि स्थितः एकाकी इति विशेषणात् संन्यासं कृत्वा इत्यर्थःयतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा देहश्च संयतौ यस्य सः यतचित्तात्मा, निराशीः वीततृष्णः अपरिग्रहः परिग्रहरहितश्चेत्यर्थःसंन्यासित्वेऽपि त्यक्तसर्वपरिग्रहः सन् युञ्जीत इत्यर्थः ॥ १० ॥

आदरनैरन्तर्यदीर्घकालत्वं विशेषणत्रयं योगस्य सूचयति -

सततमिति ।

तस्यैव पञ्च अङ्गानि उपन्यस्यति -

रहसि इत्यादिना ।

सर्वदा इति आदरदीर्धकालयोः उपलक्षणम् ।

प्रत्यगात्मानं व्यावर्तयति -

अन्तःकरणमिति ।

गिरिगुहादौ इति आदिशब्देन योगप्रतिबन्धकदुर्जनादिविधुरो देशो गृह्यते ।

विशेषणद्वयस्य तात्पर्यम् आह -

रहसीति ।

योगं युञ्जानस्य संन्यासिनो विशेषणान्तराणि दर्शयति -

यतेति ।

सति संन्यासित्वे किमिति अपरिग्रहग्रहणम् ? अर्थपुनरुक्तेः, इत्याशङ्क्य कौपीनाच्छादनादिष्वपि सक्तिनिवृत्त्यर्थम् , इत्याह -

संन्यासित्वेऽपीति

॥ १० ॥