श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥
शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मनः आसनं नात्युच्छ्रितं नातीव उच्छ्रितं अपि अतिनीचम् , तच्च चैलाजिनकुशोत्तरं चैलम् अजिनं कुशाश्च उत्तरे यस्मिन् आसने तत् आसनं चैलाजिनकुशोत्तरम्पाठक्रमाद्विपरीतः अत्र क्रमः चैलादीनाम् ॥ ११ ॥

विविक्तत्वं द्वेधा विभजते -

स्वभावत इति ।

आसनस्य अस्थैर्ये तत्र उपविश्य योगम् अनुतिष्ठतः समाधानायोगात् योगासिद्धिः, इति अभिसन्धाय विशिनष्टि -

अचलमिति ।

आस्यते अस्मिन् , इति व्युत्पत्तिम् अनुसृत्य, आह -

आसनमिति ।

‘आत्मन’ इति परकीयासनव्युदासार्थम् । पतनभयपरिहारार्थं नात्युच्छ्रितम् इत्युक्तम् । नाप्यतिनीचम् , इति भूतलपाषाणादिसंश्लेषे वातक्षोभाग्निमान्द्यादिसम्भावितदोषनिरासार्थम् । चैलम् - वस्रम् , अजिनम् - चर्म पशूनाम् , तच्च मृगस्य, कुशाः - दर्भाः, ते च उत्तरे यस्मिन् उपरिष्टात् आरभ्य तत्तथोक्तम् । प्रथमञ्चैलम् , ततोऽजिनम् , ततश्च कुशाः, इति प्रतिपन्नपाठक्रमम् आपातिकं क्रमम् अतिक्रम्य, आदौ कुशाः ततोऽजिनम् , ततः चैलम् इति क्रमं विवक्षित्वा, आह   -

विपरीतोऽत्रेति

॥ ११ ॥