विविक्तत्वं द्वेधा विभजते -
स्वभावत इति ।
आसनस्य अस्थैर्ये तत्र उपविश्य योगम् अनुतिष्ठतः समाधानायोगात् योगासिद्धिः, इति अभिसन्धाय विशिनष्टि -
अचलमिति ।
आस्यते अस्मिन् , इति व्युत्पत्तिम् अनुसृत्य, आह -
आसनमिति ।
‘आत्मन’ इति परकीयासनव्युदासार्थम् । पतनभयपरिहारार्थं नात्युच्छ्रितम् इत्युक्तम् । नाप्यतिनीचम् , इति भूतलपाषाणादिसंश्लेषे वातक्षोभाग्निमान्द्यादिसम्भावितदोषनिरासार्थम् । चैलम् - वस्रम् , अजिनम् - चर्म पशूनाम् , तच्च मृगस्य, कुशाः - दर्भाः, ते च उत्तरे यस्मिन् उपरिष्टात् आरभ्य तत्तथोक्तम् । प्रथमञ्चैलम् , ततोऽजिनम् , ततश्च कुशाः, इति प्रतिपन्नपाठक्रमम् आपातिकं क्रमम् अतिक्रम्य, आदौ कुशाः ततोऽजिनम् , ततः चैलम् इति क्रमं विवक्षित्वा, आह -
विपरीतोऽत्रेति
॥ ११ ॥