योगं योगाङ्गनि च उपदिश्य उत्तरसन्दर्भस्य तात्पर्यम् आह -
अथेति ।
योगस्वरूपकतिपयतदङ्गप्रदर्शनानन्तर्यम् अथशब्दार्थः ।
विहारादीनाम् इति आदिशब्देन यथोक्ताऽऽसनादिगतावान्तरभेदग्रहणम् । तत्फलादि च इति आदिशब्देन योगफलसम्यग्ज्ञानं च तत्फलं कैवल्यं ततो भ्रष्टस्य आत्यन्तिकाविनष्टत्वम् इत्यादि गृह्यते । एवं समुदायतात्पर्ये दर्शिते, किं आसीनः शयानः तिष्ठन् गच्छन् कुर्वन् वा युञ्जीत ? इत्यपेक्षायाम् , अनन्तरश्लोकतात्पर्यम् आह -
तत्रेति ।
निर्धारणे सप्तमी । प्रथमम् योगानुष्ठानस्य प्रधानम् , ‘आसीनः सम्भवात्’ (ब्र.सू. ४-१-७) इति न्यायात् , इति यावत् ।