तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥
तत्र तस्मिन् आसने उपविश्य योगं युञ्ज्यात् । कथम् ? सर्वविषयेभ्यः उपसंहृत्य एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तं च इन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य सः यतचित्तेन्द्रियक्रियः । स किमर्थं योगं युञ्ज्यात् इत्याह — आत्मविशुद्धये अन्तःकरणस्य विशुद्ध्यर्थमित्येतत् ॥ १२ ॥