श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥
तत्र तस्मिन् आसने उपविश्य योगं युञ्ज्यात्कथम् ? सर्वविषयेभ्यः उपसंहृत्य एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तं इन्द्रियाणि चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य सः यतचित्तेन्द्रियक्रियः किमर्थं योगं युञ्ज्यात् इत्याहआत्मविशुद्धये अन्तःकरणस्य विशुद्ध्यर्थमित्येतत् ॥ १२ ॥

योगं युञ्जानस्य इतिकर्तव्यताकलापं पृच्छति -

कथमिति ।

सर्वेभ्यो विषयेभ्यः सकाशात् प्रत्याहृत्य मनसो यत् एकस्मिन्नेव ध्येये विषये सामाधानम् , यत् चित्तस्य इन्द्रियाणां च बाह्यक्रियाणां संयमनं, तत् उभयं कृत्वा योगम् अनुतिष्ठेत् , इत्याह -

सर्वेति ।

आसने यथोक्ते स्थित्वा यथोक्तया रीत्या योगानुष्ठानस्य प्रश्नपूर्वकं फलम् आह -

स किमर्थमित्यादिना

॥ १२ ॥