श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥
प्रतिष्ठाप्य, किम् ? —

यथोक्तम् आसनं सम्पाद्य किं कर्तव्यम् ? इति प्रश्नपूर्वकं कर्तव्यं तत् निर्दिशति -

प्रतिष्ठाप्येति ।