श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४ ॥
किञ्च —

योगं युञ्जानस्य विशेषणान्तराणि दर्शयति -

किञ्चेति ।

अन्तःकरणस्य प्रशान्ति रागद्वेषादिदोषराहित्यम् , तस्याश्च प्रकर्षः रागादिहेतोरपि निवृत्तिः । विगतभयत्वम् - सर्वकर्मपरित्यागे शास्त्रीयनिश्चयवशात् निःसन्दिग्धबुद्धित्वम् । भिक्षाभुक्यादि इति आदिशब्देन त्रिषवणस्नानशौचाऽऽचमनादि गृह्यते ।