श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथेदानीं योगफलमुच्यते

सम्प्रति परमफलकथनपरत्वेन अनन्तरश्लोकं आदत्ते -

अथेति ।

योगस्वरूपं तदङ्गम् आसनं अपि तत् कर्तृविशेषणम् इत्यस्य अर्थस्य प्रकथनानन्तरं इति अथ शब्दार्थः । आत्मानं युञ्जन् इति सम्बन्धः । आत्मशब्दः मनोविषयः । यथोक्तः विधिः आसनादिः । उक्तविशेषणत्रयद्योतनार्थं सदा इत्युक्तम् । योगी - ध्यायी संन्यासीत्यर्थः ।