आहारादि इत्यादि शब्देन विहारजागरितादि च उच्यते । आत्मसंमितं अन्नपरिमाणम् अष्टग्रासादि । आहारनियमे शतपथश्रुतिं प्रमाणयति -
यदुह वा इति ।
तदन्नं भुज्यमानं यदुह वा इति प्रसिद्ध्या अनूदितं अवति - अनुष्ठानयोग्यताम् आपाद्य अनुष्ठानद्वारेण भोक्तारं रक्षति । न पुनः तत् अन्नं अस्य अनर्थाय भवति इत्यर्थः । यत्पुनः आत्मसंमितात् भूयः - अधिकतरं शास्त्रमतिक्रम्य भुज्यते, तत् आत्मानं हिनस्ति भोक्तुः अनर्थाय भवति । यच्च अन्नं कनीयः - अल्पतरं शास्त्रनिश्चयाभावात् अद्यते तत् अन्नं अनुष्ठानयोग्यतादिद्वारा न रक्षितुं क्षमते । तस्मात् अत्यधिकम् अत्यल्पञ्च अन्नं योगमारुरुक्षता त्याज्यम् इत्यर्थः ।
श्रुतिसिद्धमर्थं निगमयति -
तस्मात् इति ।
नेत्यादेः व्याख्यानान्तरमाह -
अथवेति ।
किं तत् अन्नपरिमाणं योगशास्त्रोक्तं, यत् अधिकं न्यूनं वा अभ्यवहरतः योगानुपपत्तिः इत्याशङ्क्य आह -
उक्तं हीति ।
‘ पूरयेदशनेनार्धं तृतीयमुदकेन तु ।
वायोस्सञ्चरणार्थाय चतुर्थमवशेषयेत् ॥ ''
इति वाक्यम् आदिशब्दार्थः । यथा अत्यन्तमश्नतः अनश्नतश्च योगः न सम्भवति तथा अत्यन्तं स्वपतः जाग्रतश्च न योगस्सम्भवति, इत्याह -
तथेति
॥ १६ ॥