श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नात्यश्नतस्तु योगोऽस्ति चैकान्तमनश्नतः
चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥
अत्यश्नतः आत्मसंमितमन्नपरिमाणमतीत्याश्नतः अत्यश्नतः योगः अस्ति एकान्तम् अनश्नतः योगः अस्तियदु वा आत्मसंमितमन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत् कनीयोऽन्नं तदवति’ (श. ब्रा. ? ) इति श्रुतेःतस्मात् योगी आत्मसंमितात् अन्नात् अधिकं न्यूनं वा अश्नीयात्अथवा, योगिनः योगशास्त्रे परिपठीतात् अन्नपरिमाणात् अतिमात्रमश्नतः योगो नास्तिउक्तं हिअर्धं सव्यञ्जनान्नस्य तृतीयमुदकस्य वायोः सञ्चरणार्थं तु चतुर्थमवशेषयेत्’ ( ? ) इत्यादिपरिमाणम्तथा अतिस्वप्नशीलस्य योगो भवति नैव अतिमात्रं जाग्रतो भवति अर्जुन ॥ १६ ॥

आहारादि इत्यादि शब्देन विहारजागरितादि च उच्यते । आत्मसंमितं अन्नपरिमाणम् अष्टग्रासादि । आहारनियमे  शतपथश्रुतिं प्रमाणयति -

यदुह वा इति ।

तदन्नं भुज्यमानं यदुह वा इति प्रसिद्ध्या अनूदितं अवति - अनुष्ठानयोग्यताम् आपाद्य अनुष्ठानद्वारेण भोक्तारं रक्षति । न पुनः तत् अन्नं अस्य अनर्थाय भवति इत्यर्थः । यत्पुनः आत्मसंमितात् भूयः - अधिकतरं शास्त्रमतिक्रम्य भुज्यते, तत् आत्मानं हिनस्ति भोक्तुः अनर्थाय  भवति । यच्च अन्नं कनीयः - अल्पतरं शास्त्रनिश्चयाभावात् अद्यते तत् अन्नं अनुष्ठानयोग्यतादिद्वारा न रक्षितुं क्षमते । तस्मात् अत्यधिकम् अत्यल्पञ्च अन्नं योगमारुरुक्षता त्याज्यम् इत्यर्थः ।

श्रुतिसिद्धमर्थं निगमयति -

तस्मात् इति ।

नेत्यादेः व्याख्यानान्तरमाह -

अथवेति ।

किं तत् अन्नपरिमाणं योगशास्त्रोक्तं, यत् अधिकं न्यूनं वा अभ्यवहरतः योगानुपपत्तिः इत्याशङ्क्य आह -

उक्तं हीति ।

‘ पूरयेदशनेनार्धं तृतीयमुदकेन तु ।

वायोस्सञ्चरणार्थाय चतुर्थमवशेषयेत् ॥  ''

इति वाक्यम् आदिशब्दार्थः । यथा अत्यन्तमश्नतः अनश्नतश्च योगः न सम्भवति तथा अत्यन्तं स्वपतः जाग्रतश्च न योगस्सम्भवति, इत्याह -

तथेति

॥ १६ ॥