श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥
युक्ताहारविहारस्य आह्रियते इति आहारः अन्नम् , विहरणं विहारः पादक्रमः, तौ युक्तौ नियतपरिमाणौ यस्य सः युक्ताहारविहारः तस्य, तथा युक्तचेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य, तथा युक्तस्वप्नावबोधस्य युक्तौ स्वप्नश्च अवबोधश्च तौ नियतकालौ यस्य तस्य, युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्वसंसारदुःखक्षयकृत् योगः भवतीत्यर्थः ॥ १७ ॥

अन्नस्य नियतत्वम् अर्धम् अशनस्य इत्यादि, विहारस्य नियतत्वं योजनान्न परं गच्छेत् इत्यादि, कर्मसु चेष्टायाः नियतत्वं वाङ्नियमादि, रात्रौ प्रथमतः दशघटिकापरिमिते काले जागरणम् , मध्यतः स्वपनम् , पुनरपि दशघटिकापरिमिते जागरणम् इति स्वप्नावबोधयोः नियतकालत्वम् । एवं प्रयतमानस्य योगिनो भवतः योगस्य फलम् आह -

दुःखहेति ।

सर्वाणि इति आध्यात्मिकादिभेदभिन्नानि, इत्यर्थः ।

यथोक्तयोगमन्तरेणापि स्वप्नादौ दुःखनिवृत्तिरस्ति, इति विशिनष्टि -

सर्वेति ।

विशुद्धविज्ञानद्वारा, इति शेषः

॥ १७ ॥