श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥
कथं पुनः योगो भवति इत्युच्यते —

आहारनिद्रादिनियमविरहिणो योगव्यतिरेकम् उक्त्वा तन्नियमवतो योगान्वयं व्याचष्टे -

कथं पुनरित्यादिना ।