श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा विनियतं चित्तमात्मन्येवावतिष्ठते
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥
यदा विनियतं विशेषेण नियतं संयतम् एकाग्रतामापन्नं चित्तं हित्वा बाह्यार्थचिन्ताम् आत्मन्येव केवले अवतिष्ठते, स्वात्मनि स्थितिं लभते इत्यर्थःनिःस्पृहः सर्वकामेभ्यः निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः सः युक्तः समाहितः इत्युच्यते तदा तस्मिन्काले ॥ १८ ॥

विशेषेण संयतत्वमेव सङ्क्षिपति -

एकाग्रतामिति ।

आत्मन्येव इति एवकारार्थं कथयति -

हित्वेति ।

केवलत्वम् - अद्वितीयत्वम् । तस्य आत्मस्थितिं विवृणोति -

स्वात्मनीति ।

चित्तस्य हि कल्पितस्य आत्मैव तत्त्वम् । तत्पुनः अन्यतः सर्वतो निवारितम् अधिष्ठाने निमग्नं तिष्ठति, इति भावः ।

तस्याम् अवस्थायां सर्वेभ्यो विषयेभ्यो व्यावृत्ततृष्णो युक्तो व्यवह्रियते, इत्याह -

निःस्पृह इति

॥ १८ ॥