श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा विनियतं चित्तमात्मन्येवावतिष्ठते
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥
अथ अधुना कदा युक्तो भवति इत्युच्यते —

सफलस्य साङ्गस्य योगस्य उक्त्यनन्तरम् , ‘यदा हि’ (भ. गी. ४-७) इत्यादौ उक्तकालानुवादेन युक्तं लक्षयितुं अनन्तरश्लोकप्रवृत्तिं दर्शयति -

अथ अधुनेति ।