श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदा दीपो निवातस्थो नेङ्गते सोपमा स्मृता
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥
यथा दीपः प्रदीपः निवातस्थः निवाते वातवर्जिते देशे स्थितः इङ्गते चलति, सा उपमा उपमीयते अनया इत्युपमा योगज्ञैः चित्तप्रचारदर्शिभिः स्मृता चिन्तिता योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योगम् अनुतिष्ठतः आत्मनः समाधिमनुतिष्ठत इत्यर्थः ॥ १९ ॥

उपमा - योगिनः चित्तस्थैर्यस्य उदाहरणम् , इत्यर्थः । उपमाशब्दस्य प्रदीपविषयत्वसिद्ध्यर्थं करणव्युत्पत्तिं दर्शयति -

उपमीयत इति ।

योगिनः - यथोक्तविशेषणवतः चित्तस्थैर्यस्य, इति शेषः

॥ १९ ॥