श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्रोपरमते चित्तं निरुद्धं योगसेवया
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥
यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन, यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेन अन्तःकरणेन आत्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन् उपलभमानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते ॥ २० ॥

चकारस्य सम्बन्धमाह -

यस्मिंश्चेति ।

कालस्तु पूर्ववत् ।

कर्मकारकत्वेन निर्दिष्टम्  आत्मानं तत्पदार्थत्वेन व्याचष्टे -

परमिति ।

आत्मनि इत्यस्य त्वम्पदार्थविषयत्वमाह -

एवेति ।

परमात्मानं प्रतीच्येव तद्भावेन अपरोक्षीकुर्वन् अतुष्टिहेत्वभावात् तुष्यत्येव इत्यर्थः । तस्मिन् काले योगसिद्धिः भवति इति शेषः

॥ २० ॥