श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं योगाभ्यासबलादेकाग्रीभूतं निवातप्रदीपकल्पं सत्
एवं योगाभ्यासबलादेकाग्रीभूतं निवातप्रदीपकल्पं सत्

द्विविधः समाधिः सम्प्रज्ञातः असम्प्रज्ञातश्च । ध्येयैकाकारसत्ववृत्तिः भेदेन कथञ्चित् ज्ञायमाना सम्प्रज्ञातः समाधिः । कथमपि पृथक् अज्ञायमाना सैव सत्ववृत्तिः असम्प्रज्ञातः समाधिः । तत्र सामान्येन समाधिलक्षणमभिधाय असम्प्रज्ञातस्य सामधेः अधुना लक्षणं विवक्षन् आह -

एवमिति ।

काले समाध्युपलक्षिते । एवकारः तुष्यति इत्यनेन सम्बध्यते ।