श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः
यस्मिन्स्थितो दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥
यं लब्ध्वा यम् आत्मलाभं लब्ध्वा प्राप्य अपरम् अन्यत् लाभं लाभान्तरं ततः अधिकम् अस्तीति मन्यते चिन्तयतिकिञ्च, यस्मिन् आत्मतत्त्वे स्थितः दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा महता अपि विचाल्यते ॥ २२ ॥

आत्मलाभात् न परं विद्यते, इति स्मृत्वा व्याचष्टे -

यम् आत्मलाभमिति ।

लाभान्तरम् - पुरुषार्थभूतम् , ततः - तस्मात् , आत्मलाभादिति यावत् । तं विद्यात् इति उत्तरत्र सम्बन्धः ।

यस्मिन् इत्याद्यवतारयति -

किञ्चेति ।

अपरिपक्वयोगो यथा दर्शितेन दुःखेन प्रच्याव्यते न चैवं विचाल्यते यस्मिन् स्थितो योगी, तं योगं विद्यात् , इति पूर्ववत्

॥ २२ ॥