श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम्
निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ २३ ॥
तं विद्यात् विजानीयात् दुःखसंयोगवियोगं दुःखैः संयोगः दुःखसंयोगः, तेन वियोगः दुःखसंयोगवियोगः, तं दुःखसंयोगवियोगं योग इत्येव संज्ञितं विपरीतलक्षणेन विद्यात् विजानीयादित्यर्थःयोगफलमुपसंहृत्य पुनरन्वारम्भेण योगस्य कर्तव्यता उच्यते निश्चयानिर्वेदयोः योगसाधनत्वविधानार्थम् यथोक्तफलो योगः निश्चयेन अध्यवसायेन योक्तव्यः अनिर्विण्णचेतसा निर्विण्णम् अनिर्विण्णम्किं तत् ? चेतः तेन निर्वेदरहितेन चेतसा चित्तेनेत्यर्थः ॥ २३ ॥

दुःखसंयोगस्य वियोगः वियोगसंज्ञितो युज्यते, स कथं योगसंज्ञितः स्यात् ? इत्याशङ्क्य, आह -

विपरीतेति ।

इयं हि योगावस्था समुत्खातनिखिलदुःखभेदा, इति दुःखसंयोगभावो योगसंज्ञाम् अर्हति, इत्यर्थः ।

उपसंहृते योगफले किमिति पुनः योगस्य कर्तव्यत्वम् उच्यते ? तत्र आह -

योगफलमिति ।

प्रकारान्तरेण योगस्य कर्तव्यत्वोपदेशारम्भः अत्र अन्वारम्भः ।

योगं युञ्जानः तत्क्षणात् उक्तां संसिद्धिं अलभमानः संशयानो निवर्तेत इति, तन्निवृत्त्यर्थं पुनः कर्तव्योपदेशः अर्थवान् , इति मत्वा, आह -

निश्चयेति ।

तयोः साधानविधानमेव अक्षरयोजनया साधयति -

स यथेति ।

इह जन्मनि जन्मान्तरे वा सेत्स्यति, इति अध्यवसायेन योक्तव्यः - कर्तव्यः

॥ २३ ॥