श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥
सङ्कल्पप्रभवान् सङ्कल्पः प्रभवः येषां कामानां ते सङ्कल्पप्रभवाः कामाः तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतः निर्लेपेनकिञ्च, मनसैव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रियसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ॥ २४ ॥

केन क्रमेण कर्तव्यत्वम् इत्यपेक्षायाम् , आह -  

सङ्कल्पेति ।

सङ्कल्पः - शोभनाध्यासः ।

सर्वान् इत्युक्त्वा पुनः अशेषत इति पुनरुक्तिः, इत्याशङ्क्य, आह -

निर्लेपेनेति ।

तथा शेषो न भवति, तथा सर्वेषां कामानां शोभनाध्यासाधीनानां त्यागस्य योगानुष्ठानशेषत्ववत् विवेकयुक्तेन मनसा करणसमुदायस्य सर्वतो नियमनमपि तत्र शेषत्वेन कर्तव्यम् , इत्याह -

किञ्चेति

॥ २४ ॥