श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया
आत्मसंस्थं मनः कृत्वा किञ्चिदपि चिन्तयेत् ॥ २५ ॥
शनैः शनैः सहसा उपरमेत् उपरतिं कुर्यात्कया ? बुद्ध्याकिंविशिष्टया ? धृतिगृहीतया धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्येण युक्तया इत्यर्थःआत्मसंस्थम् आत्मनि संस्थितम्आत्मैव सर्वं ततोऽन्यत् किञ्चिदस्तिइत्येवमात्मसंस्थं मनः कृत्वा किञ्चिदपि चिन्तयेत्एष योगस्य परमो विधिः ॥ २५ ॥

कामत्यागद्वारेण इन्द्रियाणि प्रत्याहृत्य किं कुर्यादिति शङ्कितारं प्रति आह -

शनैः शनैरिति ।

सहसा विषयेभ्यः सकाशात् उपरमे मनसो न स्वास्थ्यं सम्भवति, इत्यभिप्रेत्य, आह -

न सहसेति ।

तत्र साधनं धैर्ययुक्ता बुद्धिः, इत्याह -

कयेत्यादिना ।

भूम्यादीः अव्याकृतपर्यन्ताः प्रकृतीः अष्ट पूर्वत्र पूर्वत्र धारणं कृत्वा उत्तरोत्तरक्रमेण प्रविलापयेत् , इति भावः ।

अव्यक्तम् आत्मनि प्रविलाप्य, आत्ममात्रनिष्ठं मनो विधाय, चिन्तयितव्याभावात् अतिस्वस्थो भवेत् , इत्याह -

आत्मेति ।

तत्र संस्थितिमेव मनसो विवृणोति -

आत्मैवेति ।

योगविधिम् उपक्रम्य, किमिदम् उक्तम् ? इत्याशङ्क्य, आह -

एष इति ।

यत् मनसो नैश्चल्यम् , इति शेषः

॥ २५ ॥